मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् ९

संहिता

उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् ।
वि रो॑चतामरु॒षो भा॒नुना॒ शुचि॒ः स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥

पदपाठः

उत् । जा॒य॒ता॒म् । प॒र॒शुः । ज्योति॑षा । स॒ह । भू॒याः । ऋ॒तस्य॑ । सु॒ऽदुघा॑ । पु॒रा॒ण॒ऽवत् ।
वि । रो॒च॒ता॒म् । अ॒रु॒षः । भा॒नुना॑ । शुचिः॑ । स्वः॒ । न । शु॒क्रम् । शु॒शु॒ची॒त॒ । सत्ऽप॑तिः ॥

सायणभाष्यम्

परशुरिंद्रस्य वज्रोज्योतिषा तेजसा सहउज्जायतां अस्मच्छत्रुवधे मेघवधेच व्याप्रियता- मित्यर्थः । किंच ऋतस्य सत्यस्य सुदुघा माध्यमिका वाक् पुराणवत् काले भूया भूयात् पुरुषव्यत्ययः । किंचेंद्रः अरुषः आरोचमानोभानुना दीप्त्याशुचिर्ज्वलन् विरोचतां प्रकाशताम् । किंच सत्पतिः सतां पतिरिंद्रः स्वर्न आदित्यइव शुक्रं ज्वलन् शुशुचीत अत्यंतं दीप्यताम् । ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५