मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् १

संहिता

आ या॒त्विन्द्र॒ः स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् ।
प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥

पदपाठः

आ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः । तुवि॑ष्मान् ।
प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥

सायणभाष्यम्

आयात्वित्येकदशर्चं द्वितीयं सूक्तं आंगिरसस्य कृष्णस्यार्षं ऎन्द्रं आदितस्तिस्रस्त्रिष्टुभः ततः षट् जगत्यः ततोद्वे त्रिष्टुभौ । तथाचानुक्रांतं—आयातु त्रित्रिष्टुबादीति । आभिप्ल- विकेषूक्थेषु ब्राह्मणाच्छंसिनः स्तोमवृद्धाविदमावापार्थम् । सूत्रितंच—आयात्विंद्रः स्वपतिरिमां धियमिति ब्राह्मणाच्छंसीति ।

यइंद्रस्तूतुजानः त्वरमाणः तुविष्मान् वृद्धिमान् विश्वा विश्वानि सहांसि शत्रुबलानि अपारेण महता अधिकेन वृष्ण्येन बलेन प्रत्वक्षाणः प्रकर्षेण तनूकुर्वन् अतिगच्छतीति शेषः । स्वपतिर्धनपतिरिंद्रोमदाय मदार्थं धर्मणा धारकेण रथेनायात्वस्मद्यज्ञं प्रत्यागच्छतु । ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६