मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् २

संहिता

सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ ।
शीभं॑ राजन्त्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥

पदपाठः

सु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ । नृ॒ऽप॒ते॒ । गभ॑स्तौ ।
शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा॑म । ते॒ । प॒पुषः॑ । वृष्ण्या॑नि ॥

सायणभाष्यम्

हे नृपते नृणां पालकेंद्र ते तव रथः सुष्ठामा शोभनावस्थानः हरी अश्वावपि सुयमा सुयमौ सुबद्धावित्यर्थः । किंच तव गभस्तौ बाहौ वज्रोमिम्यक्ष संहतोभवति । तथा सति हे राजन् सर्वस्येश्वरेंद्र शीभं शीघ्र्ं सुपथा शोभनेन मार्गेण अर्वाङस्मदभिमुखं आयाह्याग- च्छ आगत्य पपुषः सोमं पीतवतः ते तव वृष्ण्यानि बलानि वर्धाम वयं वर्धयामः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६