मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् ३

संहिता

एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् ।
प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥

पदपाठः

आ । इ॒न्द्र॒ऽवाहः॑ । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रासः॑ । त॒वि॒षासः॑ । ए॒न॒म् ।
प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ॥

सायणभाष्यम्

नृपतिं नॄणां पालकं वज्रबाहुं वज्रहस्तं उग्रमुद्गूर्णं प्रत्वक्षसं शत्रुबलानां प्रकर्षेण तनू- कर्तारं वृषभं कामानां वर्षितारं सत्यशुष्मं अविसंवादिबलं एनमिंद्रं आईमिति पूरणौ उ- ग्रासउद्गूणास्तविषासः प्रवृद्धाः सधमादः सह माद्यंतः इंद्रवाहः इंद्र्स्य वोढारोस्मत्राअ- स्मास्वावहंतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६