ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे ।
ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ ।
ओजः॑ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वृ॒धे ॥
हे इंद्र त्वं एव एवं पतिं पालकं द्रोणसाचं द्रोणकलशस्य सेवितारं सचेतसं प्रज्ञं ऊ- र्जस्कंभं बलस्य धारकं सोमं धरुणे धारके जठरे आवृषायसे आसिंचसे धारयसीत्यर्थः । किंच मह्यमोजोबलं कृष्व कुरुष्व । त्वे त्वयि अस्मानपि संगृभाय संगृहाणच । किंच केनि पानां मेधाविनामस्माकम् । केनिपः उशिजइति मेधाविनामसु पाठात् । वृधे वर्धनाय यथा यथावत् सर्वथा इनः स्वामी असः भवसि ॥ ४ ॥