मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् ७

संहिता

ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे ।
इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥

पदपाठः

ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दुः॒ऽध्यः॑ । अश्वाः॑ । येषा॑म् । दुः॒ऽयुजः॑ । आ॒ऽयु॒यु॒ज्रे ।
इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥

सायणभाष्यम्

एवैव एवमेव दूढ्योदुर्बुद्धयः अपरे अन्ये अयज्वानइत्यर्थः अपागपाचीनाअधोगंतारः संतु भवंतु । येषां यज्ञमकुर्वतामश्वादुर्युजोदुर्योजाः प्रबलाअप्यायुयुज्रे रथेषु युज्यंते ये सत्यपि सामर्थ्ये न यजंति ते नरकं गच्छंतीतिभावः । किंच इत्था इत्थं ते स्वर्गगामिनो- ये अपरे यज्वानः प्राक् मरणात् पूर्वमेव दावने देवानां हविर्दानाय संति भवंति यत्र येषु च यज्ञकारिषु वयुनानि प्रज्ञानानि कांतानि वा भोजना भोग्यानि धनानि पुरूणि बहूनि देवेभ्योदानाय संति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७