मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् ८

संहिता

गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् ।
स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्ण॑ः पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥

पदपाठः

गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ।
स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥

सायणभाष्यम्

गिरीन् मेघान् अज्रान् गमनशीलान् रेजमानान् कंपयमानान् अधारयत् इंद्रोधारित- वान् निश्चलान् कृतवानित्यर्थः । किंच द्यौर्द्युलोकः तन्निवासी वा जनः असुरराक्षसेभ्यो- भीतः सन् क्रंदत् क्रंदति इंद्रमाह्वयत्यात्मनः परित्राणार्थम् । किंचेंद्रः अंतरिक्षाणि कोपयत् कोपयति संक्षोभयतीत्यर्थः । किंचेंद्रः समीचीने परस्परं संगते धिषणे द्यावापृथिव्यौ वि- ष्कभायति अंतरिक्षेण स्तभ्राति स्वंभयतीत्यर्थः । किंचेंद्रः वृष्णः स्वोदरस्यासकृत् वर्षप्प शीलान् सोमान् पीत्वामदे सति उक्थानि पशस्यानि वचनानि शंसति प्रबवीति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७