मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् ९

संहिता

इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑ ।
अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥

पदपाठः

इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुजः॑ ।
अ॒स्मिन् । सु । ते॒ । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑गः ॥

सायणभाष्यम्

हे मघवन् धनवन्निंद्र ते तव सुकृतं संस्कृतं इमं अंकुशं बिभर्मि धारयामि अत्रांकुश- शब्देन प्रेरकत्वगुणयोगात् स्तुतिरुच्यते स्तुतिं धारयामीत्यर्थः । येन स्तुतिलक्षणंकुशेन स्वुतः सन् त्वं शफारुजः आभिमुख्येन परबलानां हंतॄन् ऎरावतादीन् गजान् आरुजा- सि आभिमुख्येन रुजसि पीडयसीत्यर्थः । किंच ते तवास्मिन्नस्मदीयसवने सु सुष्ठु ओक्यं ओकोनिवासोस्तु भवतु । किंच हे मघवन् धनवन्निंद्र आभगः आभजनीयस्त्वं सुते सुत सोमे इष्टौ यज्ञे बोधि अस्मदीयाः स्तुतीः बुध्यस्व ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७