मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् १

संहिता

दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥

पदपाठः

दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः ।
तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥

सायणभाष्यम्

दिवस्परीति द्वादशर्चं तृतीयं सूक्तं भालंदनस्य वत्सप्रेरार्षं त्रैष्टुभमाग्नेयम् । तथाचानुक्रां- तं—दिवस्परिद्वादशवत्सप्रिराग्नेयं त्विति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिके द्वे सूक्ते । अस्य सूक्तस्यांत्यां वर्जयित्वा । सूत्रितंच—दिवस्परीति सूक्तयोः पूर्वस्योत्तमामुद्धरेदिति । क्षामवत्यां अक्रंददग्निरित्येषा याज्या । सूत्रितंच—अग्नेत्वमस्मद्युयोध्यमीवाअक्रंददग्निः स्तन- यन्निवद्यौरिति ।

अग्निः प्रथमं पूर्वं दिवोद्युलोकस्य पर्युपरि आदित्यात्मना जज्ञे जातः जातवेदाः जात- प्रज्ञोजातधनोवाग्निः द्वितीयं अस्मत् अस्माकं परि उपरि पार्थिवात्मना जज्ञे नृमणाः नृषु मनुष्येषु अनुग्राहकतया सक्तचित्तोग्निस्तृतीयं अप्सु अंतरिक्षे वैद्युतात्मना जज्ञे एवंविध- मेनमग्निं स्वाधीः सुप्रज्ञोनेताजस्रमनवरतं इंधानोदीपयन् जरते स्तौति । यद्वा वाजसनेय- कोक्तप्रकारेण अस्यमंत्रस्यार्थोद्रष्टव्यः—तद्यथा दिवस्परिप्रथमं जज्ञे अग्निरिति प्राणेवैद्यौः प्राणाद्वाएषप्रथममजायतास्मद्द्वितीयं परिजातवेदाइति यदेनमदोद्वितीयं पुरुषविधोजनयत् तृतीयमप्स्विति यदेनंतृतीयमद्भ्योजनयन् नृमणाअजस्रमिति प्रजापतिर्वैनृमणाः अग्निरजस्र- मिंधानएनं जनयतेस्वाधीरिति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८