मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ३

संहिता

स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व१॒॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।
तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥

पदपाठः

स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनाः॑ । अ॒प्ऽसु । अ॒न्तः । नृ॒ऽचक्षाः॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् ।
तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒ऽवांस॑म् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥

सायणभाष्यम्

हे अग्ने समुद्रे महोदधौ जायमानं अप्म्वंतः अपां मध्ये वडवात्मनास्थितं त्वा त्वां नृ- मणाः नृषु मनुष्यषु अनुग्राहकतया सक्ताचत्तोवरुणईधे संदीपितवान् । किंच नृचक्षाः नृणां प्रत्यक्षणदृष्टआदित्योदिवोद्युलोकस्य संबंधिनि ऊधन् ऊधसि ऊधः स्थानीये आदित्यमंडले यज्ञे त ईधे संदीपितवान् । किंच तृतीये त्रयाणां पूरणे अपां वृष्ट्युदकानामुपस्थेस्थाने र- जस्यंतरिक्षलोके तस्थिवांसं विद्युद्रूपेणावस्थितं त्वा त्वां महिषा महांतोमाध्यमिकादेवग- णामरुदादयः स्तोतारोऽवर्धन् स्तुतिभिरवर्धयन् । यद्वा वाजसनेयकोक्तप्रकारेणार्थोद्रष्टव्यः— तद्यथा रामुद्रे त्वानृमणाअप्स्वंतरिति प्रजापतिर्वैनृमणाअप्सुतदाप्रजापतिरित्येतत् नृचक्षा- इंधेदिवोअग्नऊधन्निति प्रजापतिर्वेनृचक्षाआपइवऊधस्तृतीयेत्वारजसितस्थिवांसमिति द्यौर्वैतृ- तीयंरजोपामुपस्थेमहिषाअवर्धन्निति प्राणावैमहिषादिवित्वाप्राणाअवर्धयन्नित्येतदिति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८