मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ५

संहिता

श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑ण॒ः सोम॑गोपाः ।
वसु॑ः सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥

पदपाठः

श्री॒णाम् । उ॒त्ऽआ॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणा॑म् । प्र॒ऽअर्प॑णः । सोम॑ऽगोपाः ।
वसुः॑ । सू॒नुः । सह॑सः । अ॒प्ऽसु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः ॥

सायणभाष्यम्

श्रीणां विभूतीनां उदारः उद्गमयिता दाता रयीणां धनानां धरुणोधारकोमनीषाणमी- प्सितार्थानां प्रार्पणः प्रार्पयिता सोमगोपाः सोमस्य गोप्ता वसुः सर्वलोकस्य वासकः सह- सोबलस्य सूनुः अप्सूदकेषु स्थितोराजासर्वस्येश्वरश्च उषसामग्रे प्रभातकाले इधानोग्निहोत्रा र्थं समिध्यमानोग्निर्विभाति प्रकाशते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८