मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ६

संहिता

विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।
वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥

पदपाठः

विश्व॑स्य । के॒तुः । भुव॑नस्य । गर्भः॑ । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ।
वी॒ळुम् । चि॒त् । अद्रि॑म् । अ॒भि॒न॒त् । प॒रा॒ऽयन् । जनाः॑ । यत् । अ॒ग्निम् । अय॑जन्त । पञ्च॑ ॥

सायणभाष्यम्

विश्वस्य सर्वस्य केतुः प्रज्ञापकोभुवनस्योदकस्य गर्भोगर्भभूतोग्निर्जायमानः प्रादुर्भवन्नेव रोदसी द्यावापृथिव्यावापृणादापूरयति । परायन् परागच्छन् वीळुं चित् दृढमप्यद्रिं मेघम- भिनत् भिनत्ति च । कदेत्यत्राह—यद्यदा पञ्चजनाः मनुष्याअग्निमयजंत यजंते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८