मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ७

संहिता

उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।
इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥

पदपाठः

उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।
इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥

सायणभाष्यम्

उशिक् हवींषि कामयमानः पावकः सर्वस्य लोकस्य शोधकः अरतिः गंता भूतानां मारयिता वा सुमेधाः सुप्रज्ञः अमृतोमरणधर्मरहितोग्निः मर्तेषु मनुष्येषु निधायि निहितः सोयमग्निर्धूममियर्ति प्रेरयति । किञ्च अरुषमारोचमानं रूपं भरिभ्रत् धारयन् शुक्रेण शु- क्लेन शोचिषा रोचिषा द्यां दिवं उत् इनक्षन् व्याप्नुवन् गच्छतीति शेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९