मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ८

संहिता

दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑ः श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेता॑ः ॥

पदपाठः

दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ।
अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥

सायणभाष्यम्

दृशानः प्रत्यक्षेण दृश्यमानोरुक्मोरोचमानोग्निः उर्विया उरु अत्यंतं व्यद्यौत विद्योतते । किंच आयुर्गंता ससर्वतोयमग्निः श्रिये विभूत्यै दुर्मर्षं दुरभिभवं यथा भवति तथा रुचा- नोरोचमानोभवति सोयमग्निर्वयोभिरन्नैर्वनस्पतिभिरमृतोमरणरहितोभवत् यद्यस्मात्कारणा- देनमग्निं सुरेताः शोभनरेतस्कोद्यौः प्राणआदित्योवा जनयत् जनयति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९