मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् १०

संहिता

आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥

पदपाठः

आ । तम् । भ॒ज॒ । सौ॒श्र॒वसेषु॑ । अ॒ग्ने॒ । उ॒क्थेऽउ॑क्थे । आ । भ॒ज॒ । श॒स्यमा॑ने ।
प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन॑ । भि॒नद॑त् । उत् । जनि॑ऽत्वैः ॥

सायणभाष्यम्

हे अग्ने त्वं सुश्रवसेषु शोभनानि श्रवांस्यन्नानि हवींषि येषु कर्मसु तानि सौश्रवसा- नि तेषु क्रियमाणेषु तं यजमानं स्तोतारं वा आभज अभीष्टप्रदानेन सेवस्व । किंच उक्थे उक्थे शस्त्रे शस्यमाने पठ्यमाने सति तं आभज अभीष्टप्रदानेनैव सेवस्व । सोयं यजमानः स्तोता वा सूर्ये प्रियोभवाति भवतु तथा अग्नाऽग्नावपि प्रियोभवति । किंच सोयं जातेनो- त्पन्नेन पुत्रेण उद्भिनदत् शत्रून् विदारयतु तथा जनित्वैर्जनिष्यमाणैश्च पुत्रैः शत्रूनुद्भिन- दत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९