मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ११

संहिता

त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।
त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि ।
त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥

सायणभाष्यम्

हे अग्ने त्वां प्रति यजमानाः अनुद्यून् प्रत्यहं विश्वा विश्वानि वार्याणि वरणीयानि वसु वसूनि धनानि दधिरे धारयंति । किञ्च त्वया सह द्रविणमसुरैरपहृतं गोरूपं धन- मिच्छमानाः कामयमानाः उशिजोमेधाविनोदेवागोमंतं पशुमंतं व्रजं विवव्रुः विवृतद्वारं कृतवंतः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९