मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् १

संहिता

प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ ।
दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥

पदपाठः

प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ ।
दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥

सायणभाष्यम्

अच्छम इति चतुर्थेऽनुवाकेऽष्टादश सूक्तानि। तत्र प्र होतेति दशर्चं चतुर्थं सूक्तम्। प्र होता दशेत्यनुक्रान्तम्। अनुवर्तमानाद्भालन्दनस्य वत्सप्रेरार्षम्। अनादेशपरिभाषया त्रैष्तुभम्। आग्नेयम्। पूर्वसूक्तेन सहोक्तो विनियोगः॥

यो नृषद्वाग्निरपाम् । अन्तरिक्षनामैतत्। अन्तरिक्षस्योपस्थ उत्सङ्गे वैद्युतरूपेण निषण्णोऽभुत्। स इदानीं होता यजमानानां होमनिष्पादको जातः प्रादुर्भूतो महान् गुणैः पूज्यो नभोविदन्तरिक्षस्य वेत्ता। यतस्तत्रोत्पन्नः अतस्तस्य ज्ञाता। न्रुषद्वा नृषु सीदन्। सदेः क्वनिप् कृत्स्वरः। प्र सीदत्। वेद्यां प्रसीदति। अपामुपस्थे महिषा आगृभ्णत। ऋग्वे ८-४-१। इति हि निगमः। यद्वा। अपाम् । अपसामित्यर्थः। कर्मणामुपस्थ उपस्थाने समीपे वेद्यामुक्तलक्षणः सन्। अथवा। अपामुदकानामुपस्थे मध्ये योऽग्नेर्हविर्वोढुमसहमानो निगूढः स देवैः पुनः प्रार्थित उक्तविधः सन् वेद्यां प्रसीदति। योऽग्निर्दधिर्धाता यज्ञस्य धारकः सन् धायि वेद्यां निहितोऽभुत् सोऽग्निर्हे वत्सप्रे विधते परिचरते ते तुभ्यं वयांस्यन्नानि वसूनि धनानि च यन्ता। नियमिता भवतु। किञ्च तनूपास्ते तन्वः पाता च भवत्विति शेषः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः