मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् ३

संहिता

इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः ।
स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥

पदपाठः

इ॒मम् । त्रि॒तः । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒ऽव॒सः । मू॒र्धनि॑ । अघ्न्या॑याः ।
सः । शेऽवृ॑धः । जा॒तः । आ । ह॒र्म्येषु॑ । नाभिः॑ । युवा॑ । भ॒व॒ति॒ । रो॒च॒नस्य॑ ॥

सायणभाष्यम्

इमं भूरि महान्तमग्निं वैभूवसो विभूवसः पुत्रस्त्रित ऋषिरिच्छल्लब्धुमिच्छन्नघ्न्यायाः। अघ्न्या भूमिः। तस्या भूम्या मूर्धनि। भूम्यामित्यर्थः। तत्वाविन्दत्। लब्धवान्। सोऽग्निः शेवृधः सुखस्य वर्धयिता सन् हर्म्येषु यजमानगृहेष्वा सर्व्तो जातः प्रादुर्भूतः तद्रोचनस्य रोचमानस्य स्वर्गाख्यस्य फलस्योक्तलक्शणस्य यज्ञस्यादित्यस्य वा नाभिर्बन्धको भवति॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः