म॒न्द्रं होता॑रमु॒शिजो॒ नमो॑भि॒ः प्राञ्चं॑ य॒ज्ञं ने॒तार॑मध्व॒राणा॑म् ।
वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥
म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । नमः॑ऽभिः । प्राञ्च॑म् । य॒ज्ञम् । ने॒तार॑म् । अ॒ध्व॒राणा॑म् ।
वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒ऽवाह॑म् । दध॑तः । मानु॑षेषु ॥
उशिजः कामयमाना ऋत्विजो मन्द्रं मादनीयं होतारं होमनिष्पादकं प्राञ्चं गार्हपत्यादाहवनीयं प्रति प्रागञ्चन्तं यज्ञं यजनीयमध्वराणां यागानां नेतारं प्रापयितारमरतिं गन्तारं सर्वदा यागगृहे वर्तमानं पावकं शोधकं हव्यवाहं हविषो वोढारं मानुषेषु मनुष्येषु मध्ये दधतो दधाना ऋत्विजो विशां यजमानानामर्थायि। यद्वा। विशां प्रजानामरतिमर्यम् । स्वामिनमित्यर्थः। नमोभिर्नमस्करैः। स्तुतिभिरित्यर्थः। अकृण्वन्। अकुर्वन्। सुप्रीतं कृतवन्तः॥४॥