मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् ५

संहिता

प्र भू॒र्जय॑न्तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माण॑म् ।
नय॑न्तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चम् ॥

पदपाठः

प्र । भूः॒ । जय॑न्तम् । म॒हान् । वि॒पः॒ऽधाम् । मू॒राः । अमू॑रम् । पु॒राम् । द॒र्माण॑म् ।
नय॑न्तः । गर्भ॑म् । व॒नाम् । धिय॑म् । धुः॒ । हिरि॑ऽश्मश्रुम् । न । अर्वा॑णम् । धन॑ऽअर्चम् ॥

सायणभाष्यम्

हे स्तोतः त्वं जयन्तं जेतव्याञ्शत्रूञ्जयन्तं महां महान्तम् विपिधां मेधाविनो धर्तारमग्निं प्र भूः। प्रभव। समर्थो भव। स्तोतुमिति शेषः। उद्गीथस्तु भूर्जयन्तमित्येकपदं मत्वा भूरादील्लोकाञ्जयन्तमिति व्याचकार। न केवलं त्वमेक एव अपि तु मूरा मूढाः सर्वेऽपि पुरुषा अमूरममूढं पुरां दर्माणं दारकम् । औणादिको मनिः। प्रत्ययस्वरः। गर्भमरण्य़ोर्गर्भभूतं वनां वननीयम् । वा छन्दसि। पा. ६-१-१-६-१-७। इति वचनादमि पूर्वाभावः। हिरिश्मश्रुं नार्वाणम् । नेत्युपमार्थीयः। श्मश्रुशब्दोऽत्र रोमसामान्यवचनः। हरितरोमोपेतमर्वाणमरणशीलमश्वमिव। उक्तलक्षणाश्ववद्धरितकेशस्थानीयज्वालोपेतं धनर्चं प्रीणनस्तुतिम्। शकन्ध्वादित्वात्पररूपत्वम्। ईदृशमग्निं नयन्तो हविर्भिः प्रापयन्तो धियं कर्म स्तोत्रं वा धुः। प्रापयन्ति। गातिस्थेति सिचो लुक्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः