मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् ८

संहिता

प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः ।
तमा॒यवः॑ शु॒चय॑न्तं पाव॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥

पदपाठः

प्र । जि॒ह्वया॑ । भ॒र॒ते॒ । वेपः॑ । अ॒ग्निः । प्र । व॒युना॑नि । चेत॑सा । पृ॒थि॒व्याः ।
तम् । आ॒यवः॑ । शु॒चय॑न्तम् । पा॒व॒कम् । म॒न्द्रम् । होता॑रम् । द॒धि॒रे॒ । यजि॑ष्ठम् ॥

सायणभाष्यम्

योऽग्निर्जिह्वया ज्वालया वेपः। कर्मनामैतत्। कर्म प्र भरते तथा योऽग्निर्वयुनानि प्रज्ञानानि स्तोत्राणि पृथिव्या रक्षणाय चेतसानुग्रहयुक्तेन मनसा प्र भरते तमग्निमायवो गन्तारो मनुष्याः शुचयन्तं दीप्यमानं पावकं शोधकं मन्द्रं स्तुत्यं होतारमाह्वातारं होमनिष्पादकं वा यजिष्ठमतिशयेन यष्टव्यं यष्टृतमं वा दधिरे। धारयन्ति॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः