मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् ९

संहिता

द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः ।
ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ॥

पदपाठः

द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः ।
ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥

सायणभाष्यम्

यमग्निं द्यावापृथिवी व्यावापृधिव्यौ जनिष्टां अजनीषाताम् । जनेर्लुङ् व्यत्ययेन परस्मै पदम् । अपश्च यमुदपादयन् वैद्युतरूपेण त्वष्टा च यमजनयत् भृगवश्च यं सहोभिर्बलैः स्तोत्रादिसाधनैर्लब्धवन्तः। भृगवोऽविन्दन्निति ह्युक्तम् । ऋ. १०-४६-२। ईळेन्यं स्तुत्यं यं प्रथमं मातरिश्वा वायुरुपदादयत् अन्ये देवाश्च मनवे राज्ञे मनोरर्थाय यजत्रं यष्टव्यमग्निं ततक्षुः। निष्पादितवन्तः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः