मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् १०

संहिता

यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् ।
स याम॑न्नग्ने स्तुव॒ते वयो॑ धा॒ः प्र दे॑व॒यन्य॒शस॒ः सं हि पू॒र्वीः ॥

पदपाठः

यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृहः॑ । मानु॑षासः । यज॑त्रम् ।
सः । याम॑न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । प्र । दे॒व॒ऽयन् । य॒शसः॑ । सम् । हि । पू॒र्वीः ॥

सायणभाष्यम्

हे अग्ने हव्यवाहं यं त्वा त्वां देवा दधिरे धारितवन्तः मानुषासो मनुष्याश्च पुरुस्पृहो बहुकामान् स्पृहयन्तो यजत्रं यष्टव्यं दधिरे धारितवन्तः हे अग्ने स त्वं यमन् यामिनि यज्ञे स्तुवते मह्यं वयोऽन्नंधा। देहि। हे अग्ने त्वत्त्तो देवयन् देवकामो यजमानः पूर्वीर्बह्वीर्बहूनि यशसो यशांसि सं हीत्युपसर्गश्रुतेर्योग्यक्रियाध्याहारः। सम्प्राप्नोति खलु॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः