मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४७, ऋक् १

संहिता

ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् ।
वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥

पदपाठः

ज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ।
वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

जग्भ्मा त इत्यष्टर्चं पञ्चमं सूक्तमाङ्गिरसस्य सप्तगुनाम्न आर्षं त्रैष्टुभम् । विकुण्ठा नामासुरस्त्री। सा चेन्द्रसदृशं पुत्रं कामयमाना कृच्छ्र चान्द्रायणादिकं तपस्तेपे। मत्सिदैशोऽन्यः कश्चिन्मा जनिष्टेति बुद्ध्वेन्द्र एव तस्याः पुत्रोऽजायत। तादृशो वैकुण्ठ इन्द्रो देवता। तथा चानुक्रान्तम्। जगृभ्माष्टौ सप्तगुर्वैकुण्ठमिन्द्रं तुष्टावेत्यादि। गतो विनियोगः॥

वसूनां वसुपते बहूनां धनानां स्वामिन्निन्द्र ते तव दक्षिणं हस्तं वसूयवो वसुकामा वयं जगृभ्म गृह्णीमः। यथा बहुप्रदस्यार्थिनो मह्यमदत्त्वा न गन्तव्यमिति हस्तं गृह्णन्ति तद्वत्। हे शूर विक्रान्तेन्द्र त्वा त्वां गोनां गोपतिम् । अत्र व्रुत्त्यवृत्तिभ्यां स्वामित्वं बहुत्वं च प्रतिपाद्यते। बह्वीणां गवां गोपतिं विद्म। जानीमः। अतोऽस्मभ्यं चित्रं चायनीयं व्रुषणं वर्षकं रयिं धनं दाः। देहि॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः