स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतु॑ःसमुद्रं ध॒रुणं॑ रयी॒णाम् ।
च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥
सु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् ।
च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥
स्वायुधं शोभनवज्राद्यायुधं स्ववसं शोभनरक्षनम् सुगमनं वा सुनीथं सुनयनं चतुः समुद्रं चतुरः समुद्रान्यो यशसा व्याप्नोति तं धरुणं धारकं केषाम्। रयीणां धनानाम्। चर्कृत्यं पुनः पुनः कर्तव्यं शंस्यं स्तुत्यं भूरिवारं भूरीणां दुःखानां वारकं बहुभिर्वरणीयं वा त्वां विद्मेति शेषः। तादृशोऽस्मभ्यमित्यादि पूर्ववत्। यद्वा। हे इन्द्र उक्तगुणविशिष्टं पुत्राख्यं रयिं दाः। देहि॥२॥