मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४७, ऋक् ३

संहिता

सु॒ब्रह्मा॑णं दे॒वव॑न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र ।
श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥

पदपाठः

सु॒ऽब्रह्मा॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थुऽबु॑ध्नम् । इ॒न्द्र॒ ।
श्रु॒तऽऋ॑षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं सुब्रह्माणम् । ब्रह्म परिवृढं स्तुति लक्षनं कर्म। शोभनस्तुतिकमित्यर्थः। देववन्तं बृहन्तं महान्तमुरुं विस्तीर्णं गम्भीरमसुरादिभिरगम्यं पृथुबुध्नं विस्तृतमूलं श्रुतऋषिं श्रुता ऋषयो येन तादृशमृषीणां ख्यापयितारं प्रथितज्ञानं वोग्रमुद्गूर्णबलं अत एवाभिमातिषाहमभिमातीनां शत्रूणामभिभवितारं हन्तारमस्मभ्यं चित्रं पूज्यं वृषणं वर्षक्वं पुत्रं रयिं धनं दाः। देहि। अथवा विशेषणविशेष्यभावः। उक्तलक्षणं पुत्राख्यं रयिं दाः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः