मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४७, ऋक् ४

संहिता

स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् ।
द॒स्यु॒हनं॑ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥

पदपाठः

स॒नत्ऽवा॑जम् । विप्र॑ऽवीरम् । तरु॑त्रम् । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् ।
द॒स्यु॒हन॑म् । पूः॒ऽभिद॑म् । इ॒न्द्र॒ । स॒त्यम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

सनद्वाजं लब्धान्नं विप्रवीरं मेधाविनं पुत्रं तरुत्रं तारकं धनस्पैतं धनानां पूरकं स्प्रष्टारं वा। स्पृणतेः स्पृशतेर्वोत्तरपदम् । शूशुवांसं वर्धमानं सुदक्षं शोभनबलं दस्तुहनं शत्रूणां हन्तारं पूर्भिदं शत्रूणां पुरां भेत्तारं सत्यं सत्यकर्माणम् । शिष्टमुक्तं॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः