मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४७, ऋक् ६

संहिता

प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति ।
य आ॑ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥

पदपाठः

प्र । स॒प्तऽगु॑म् । ऋ॒तऽधी॑तिम् । सु॒ऽमे॒धाम् । बृह॒स्पति॑म् । म॒तिः । अच्छ॑ । जि॒गा॒ति॒ ।
यः । आ॒ङ्गि॒र॒सः । नम॑सा । उ॒प॒ऽसद्यः॑ । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

सप्तगुं मां मतिः स्तुतिर्देवविषयाच्छ जिगाति। कीदृषं सप्तगुम् । ऋतधीतिं सत्यकर्माणं सुमेधां शोभनप्रज्ञं बृहस्पतिं बृहतो मन्त्रस्य स्वामिनं य सप्तगुराङ्गिरसोऽङ्गिरोगोत्रोत्पन्नोऽहं नमसा समस्कारेण देवानुपसदः। उपगतः। यद्वा। नमसान्नेनोपसद्य उपसदनीयः। देवैरनुग्राह्य इत्यर्थः। ताद्रुशायास्मभ्यं मह्यं चित्रं वृषणं रयिं दाः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः