मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४७, ऋक् ७

संहिता

वनी॑वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा॑श्चरन्ति सुम॒तीरि॑या॒नाः ।
हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥

पदपाठः

वनी॑वानः । मम॑ । दू॒तासः॑ । इन्द्र॑म् । सोमाः॑ । च॒र॒न्ति॒ । सु॒ऽम॒तीः । इ॒या॒नाः ।
हृ॒दि॒ऽस्पृशः॑ । मन॑सा । व॒च्यमा॑नाः । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

वनीवानो वननवन्तः। छन्दसीवनिपाविति मत्वर्थीयोवनिप्। मम सप्तगोर्दूतासो दूतसदृशाः दूता यथा भर्तुरभिमतार्थं प्रापणीयं प्रापयन्ति तद्वत्स्तुत्यान्गुणान्प्रापयन्तः स्तोमाः स्तवाः सुमतीस्तस्येन्द्रस्यास्मद्विषया अनुकूला बुद्धीरियाना याचमाना इन्द्रं चरन्ति। प्राप्नुवन्ति। पुनश्च त एव विशेष्यन्ते। हृदिस्पृशो हृदये स्पृशन्तः। स्तुत्यस्य प्रियभूता इत्यर्थः। हृद्द्युभ्यामित्युपसङ्ख्यानात् ङेरलुक्। मनसा सत्त्वोद्रिक्तेन वच्यमाना उच्यमानाः। अस्मभ्यमित्यादि गतम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः