मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४७, ऋक् ८

संहिता

यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना॑नाम् ।
अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥

पदपाठः

यत् । त्वा॒ । यामि॑ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् ।
अ॒भि । तत् । द्यावा॑पृथि॒वी इति॑ । गृ॒णी॒ता॒म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां यद्वक्षमाणं यामि याचामि। वर्णलोपश्छान्दसः। याच्यमानं तद्दद्धि। देहि। ददातेर्लोटि व्यत्ययेन परस्मैपदम् । बहुलं छन्दसीति शपो लुक्। तदिति सामान्येन निर्दिष्टं विशेषयति। बृहन्तं महान्तं क्षयं निवासं जनानामन्येषामसममसाधारणं देहि। त्वया दातव्यं द्यावापृथिवी अभि गृणीताम् । अस्मभ्यमित्यादि गतं॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः