मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ९

संहिता

प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता ।
दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करम् ॥

पदपाठः

प्र । मे॒ । नमी॑ । सा॒प्यः । इ॒षे । भु॒जे । भू॒त् । गवा॑म् । एषे॑ । स॒ख्या । कृ॒णु॒त॒ । द्वि॒ता ।
दि॒द्युम् । यत् । अ॒स्य॒ । स॒म्ऽइ॒थेषु॑ । मं॒हय॑म् । आत् । इत् । ए॒न॒म् । शंस्य॑म् । उ॒क्थ्य॑म् । क॒र॒म् ॥

सायणभाष्यम्

मे मम मत्सम्बन्धी नमी। नामकत्वान्नमः स्तोत्रम् । तदस्यास्तीति नमीस्तोता साप्यः सर्वैराश्रयणीय इषेऽन्नाय भुजे भोगाय प्र भूत्। प्रभवति। तं मत्स्तोतारं नमष्या गवामेषेऽन्वेषणाय सख्या सख्याय च द्विता द्विविधं द्विप्रकाराय कृणुत। कृण्वन्ति। गवां दातारं सखायं च कुर्वन्तीत्यर्थः। यद्वा। गवामेष एषने द्विता द्वैधाय सख्या शरीराय सैनिकाय च सख्यायकृण्वन्ति। कदेति उच्यते। यद्यदास्य मत्सम्बन्धिनः स्तोतुर्जयार्थं समिथेषु सङ्ग्रामेषु दिद्युमायुधं मंहयम् । स्वीकुर्यामित्यर्थः। आदिदनन्तरमेवैनं स्तोतारं शंस्यं स्तुत्यमुक्थ्यमुक्थार्हं करम् । आकरम् । करोमि॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः