मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् १०

संहिता

प्र नेम॑स्मिन्ददृशे॒ सोमो॑ अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति ।
स ति॒ग्मशृ॑ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अ॒न्तः ॥

पदपाठः

प्र । नेम॑स्मिन् । द॒दृ॒शे॒ । सोमः॑ । अ॒न्तः । गो॒पाः । नेम॑म् । आ॒विः । अ॒स्था । कृ॒णो॒ति॒ ।
सः । ति॒ग्मऽशृ॑ङ्गम् । वृ॒ष॒भम् । युयु॑त्सन् । द्रु॒हः । त॒स्थौ॒ । ब॒हु॒ले । ब॒द्धः । अ॒न्तरिति॑ ॥

सायणभाष्यम्

नेमस्मिन्। नेमशब्दोऽर्धपर्याय। यष्टायष्टा च द्वौ पुरुषौ यध्यन्तौ। यतोरेकस्मिन्यष्टरीत्यर्थः। ठस्मिन्नतः सोमो ददृशे। दृश्यते। तं नेममर्धमेकं गोपा गोपायितेन्द्रोऽस्था क्षेपणसाधनेन वज्रेणाविष्कृणोति। प्रकटयति। शत्रुभिरनभिभुतं करोतीत्यर्थः। स यत्र सोमो न दृश्यते स तिग्मशृङ्गं तीक्ष्णायुधं वृषभं बाणान्वर्षयन्तमिन्द्रेणानुगृहीतं प्रति युयुत्सन् योद्धुमिच्छन् द्रुहो द्रोग्धा बद्धः सन् बहुलेऽन्धकारेऽन्तस्तस्य मध्ये तस्थौ। तिष्ठति। यद्वा। एवं व्याख्येयम् । नेमस्मिन्निन्द्रभक्तेऽन्तः सोमो दवृशे। नेममन्यं गोपाः स्वभक्तरक्षक इन्द्रोऽस्था वज्रेणाविष्कृणोति। आविष्करोति। वज्रेण पीअयतीत्यर्थः। स नेमो द्रुहस्तिग्मशृङ्गं वृषभमिन्द्रं युयुत्सन्। शिष्टं समानं॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः