मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ११

संहिता

आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ ।
ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हम् ॥

पदपाठः

आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ ।
ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥

सायणभाष्यम्

आदित्यानां वसूनां रुद्रियाणां रुद्राणां यद्वा रुद्रपुत्राणां मरुतां च देवानां धाम स्थानं देव इन्द्रो न मिनाति। न हिनस्ति। त आदित्यादयो मा मां भद्राय शवसे ततक्षुः। अनुगृह्णन्तु। अपराजितमस्तृतमहिंसिठमषाळ्ह मनभिभूतम्॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः