मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् २

संहिता

मां धु॒रिन्द्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तवः॑ ।
अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥

पदपाठः

माम् । धुः॒ । इन्द्र॑म् । नाम॑ । दे॒वता॑ । दि॒वः । च॒ । ग्मः । च॒ । अ॒पाम् । च॒ । ज॒न्तवः॑ ।
अ॒हम् । हरी॒ इति॑ । वृष॑णा । विऽव्र॑ता । र॒घू इति॑ । अ॒हम् । वज्र॑म् । शव॑से । धृ॒ष्णु । आ । द॒दे॒ ॥

सायणभाष्यम्

इन्द्रं नामन्द्रनामानं मा देवता देवानां मध्ये दिवो द्युलोकस्य। ग्मा पृथिव्यापोऽन्तरिक्षम् । एतेषु लोकेषु जन्तवो जाता मा मामेव धुः। दधुः। धारयन्ति। हविर्भिः स्तुभिश्च। अहं यज्ञगमनाय सङ्ग्रामगमनाय वा हरी हरितवर्णौ वृषणा पुंस्त्वोपेतौ विव्रता विविधकर्माणौ रघू लघू शीघ्रगती आश्वौ नियोजयामि रथे। तथाहं धृष्णु धर्षकं वज्रमायुधं शवसे बलायाददे। स्वीकरोमि॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः