ए॒वा दे॒वाँ इन्द्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः ।
विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणन्ति ॥
ए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः ।
विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥
अथानयेन्द्र इन्द्रभावं परित्यज्य ऋषिभावेनाह। एवैवमुक्तप्रकारेण देवान्नॄंश्चेन्द्रो देवः प्र विव्ये। प्रकर्षेण गमयति। तस्मात्पराचीः प्रजाः प्रवीयन्ते प्रतीचीर्जायन्ते। तै. सं. ६-३-१-४। इति ब्राह्मणम्। किमन्यसहायेन नेत्याह। च्यौत्नेन स्वीयेन बलेन। कीदृश इन्द्रः। मघवा धनवान् सत्यराधाः सत्यधनः। अथ प्रत्यक्षेणाह। हे हरिवो हरिभ्यां तद्व ञ्यचीवः कर्मवन् हे स्वयशः स्वायत्तकीर्तेऽन्नवन्वेन्द्र ता तानि विश्वा सर्वाणि कर्माणि ते तव सम्बन्धीनि येषु कर्मसु तुरासस्त्वरमाणा ऋत्विजोऽभि गृणन्ति अभिष्टुवन्ति॥११॥