मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५०, ऋक् १

संहिता

प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।
इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ॥

पदपाठः

प्र । वः॒ । म॒हे । मन्द॑मानाय । अन्ध॑सः । अर्च॑ । वि॒श्वान॑राय । वि॒श्व॒ऽभुवे॑ ।
इन्द्र॑स्य । यस्य॑ । सुऽम॑खम् । सहः॑ । महि॑ । श्रवः॑ । नृ॒म्णम् । च॒ । रोद॑सी॒ इति॑ । स॒प॒र्यतः॑ ॥

सायणभाष्यम्

प्रवो मह इति सप्तर्चमष्टमं सूक्तम् । आदितो द्वे जगत्यौ। के ते नर इत्यादिके द्वे अभिसारिण्यौ। आदितो द्वौ दशाक्षरौ ततो द्वौ द्वादशकौ साभिसारिणी। तदुक्तम् । वैराजौ जागतौ चाभिसारिणी। अनु. ९-४। इति । ततो द्वे जगतौ। पूर्ववदृषिदेवते। तथा चानुक्रान्तम् । प्र वो महे सप्त द्विजगत्याद्यन्तं केतेऽभिसारिण्याविति। महाव्रते निष्केवल्य एतत्सूक्तं निविद्धानम् । सूत्रितं च। प्र वो महे मन्दमानायान्धस इति निविद्धानम् । ऐ. आ. ५-३-१। इति॥

हे स्तोतः वस्त्वम् । पूजार्थे बहुवचनम् । महे महतेऽन्धसः। आन्धसेत्यर्थः। सोमेन मन्दमानाय मोदमानाय विश्वानराय सर्वस्य नेत्रे। नरे संज्ञायामिति दीर्घः। विश्वाभुवे सर्वस्य भावयित्रे मह्यमिन्द्राय प्रार्च। अर्चतिः स्तुतिकर्मा। प्रोच्चारय। यस्य ममेन्द्रस्य सुमखं सुष्ठु मंहनीयं सहो बलं महि महच्छ्रवोऽन्नं नृम्णं सुखं च रोदसी द्यावापृथिव्यौ सपर्यतः। पूजयतः। तस्मा इन्द्रायार्चेति समन्वयः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः