मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५०, ऋक् २

संहिता

सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे॑ ।
विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मन्दसे ॥

पदपाठः

सः । चि॒त् । नु । सख्या॑ । नर्यः॑ । इ॒नः । स्तु॒तः । च॒र्कृत्यः॑ । इन्द्रः॑ । माऽव॑ते । नरे॑ ।
विश्वा॑सु । धूः॒ऽसु । वा॒ज॒ऽकृत्ये॑षु । स॒त्ऽप॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्ऽसु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥

सायणभाष्यम्

सो चिन्नु स ख्लविन्द्रः सख्या सखिभूतेन निमित्तेन नर्यो नृभ्यो हित इनः सर्वस्येश्वरः स्तुतः सर्वैरभिष्टुतः। सख्या स्तुत इति वान्वयः। मावते मत्सदृशाय नरे नराय चर्कृत्यः। पुनः पुनः कर्तव्यः। परिचरणीय इत्यर्थः। अथ प्रत्यक्षवादः। हे सत्पते सतां पालकेन्द्र स त्वं विश्वासु सर्वासु धूर्षु वोढव्येषु कार्यभारेषु वाजकृत्येषु च बलकृत्येषु च वृत्रे वाप्सु मेघे वर्तमानेषूदकेषु च निमित्तेषु हे शूर त्वमभि मन्दसे। अभिष्टूयसे॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः