मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५०, ऋक् ३

संहिता

के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् ।
के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥

पदपाठः

के । ते । नरः॑ । इ॒न्द्र॒ । ये । ते॒ । इ॒षे । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् ।
के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वि॒रे॒ । के । अ॒प्ऽसु । स्वासु॑ । उ॒र्वरा॑सु । पौंस्ये॑ ॥

सायणभाष्यम्

हे इन्द्र ते के नरः के मनुष्या इति प्रश्नः। ते महान्तो मया ज्ञातव्या इत्यभिप्रायः। प्रष्टव्यानाह। ये नरास्ते तवेषेऽन्नाय प्रभवन्तीति शेषः। ये च ते सुम्नं सुखं त्वदीयं सधन्यं धनयुक्तमियक्षान् गच्छन्ति। इयक्षतिर्गतिकर्मा। त्वदीयमन्नं सुखं धनं च ये लभन्ते ते के महात्मान इति। किञ्च के ते तवासुर्यायासुरसम्बन्धिने तेशां वधनिमित्ताय वाजाय बलाय हिन्विरे। प्रेरयन्ति सोमादि हविः। के वाप्सु स्वासु स्वापेक्षितेषूदकेषूर्वरासु सर्वसस्याढ्यासु भूमिषु पौंस्ये पुंस्त्वे चेति तेशु निमित्तभूतेषु हविः प्रेरयन्तीत्यनुवर्तते। उक्तविधा मनान्तो दुर्लभा इति भावः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः