मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५०, ऋक् ६

संहिता

ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे ।
वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ॥

पदपाठः

ए॒ता । विश्वा॑ । सव॑ना । तू॒तु॒मा । कृ॒षे॒ । स्व॒यम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यानि॑ । द॒धि॒षे ।
वरा॑य । ते॒ । पात्र॑म् । धर्म॑णे । तना॑ । य॒ज्ञः । मन्त्रः॑ । ब्रह्म॑ । उत्ऽय॑तम् । वचः॑ ॥

सायणभाष्यम्

हे इन्द्र एतैतानि विश्व सवना सर्वाणि सवनानि तूतुमा तूर्णानि कृषे। करोषि। एतानीत्युक्तं कानिति तत्राह। हे सहसो बलस्य सूनो पुत्र। बलवन्नित्यर्थः। स्वयं यानि दधिषे धारयसि। हे इन्द्र ते तव वराय शत्रूणां वारकाय ते तव स्वभूतं पात्रं रक्षणं भवत्वस्माकम् । किञ्च धर्मणे धारणाय तना धनं भवत्विति शेशः। किञ्च तुभ्यं यज्ञो मन्त्रः। इज्यतेऽनेनेति यज्ञकरणसाधनभुतो मन्त्रः। यजुरित्यर्थः। ब्रह्म परिवृढम् । शस्त्रमित्यर्थः। तदुभयात्मकं वच उद्यतं भवतिति शेषः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः