मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५०, ऋक् ७

संहिता

ये ते॑ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ ।
प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ॥

पदपाठः

ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । वसू॑नाम् । च॒ । वसु॑नः । च॒ । दा॒वने॑ ।
प्र । ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भु॒व॒न् । मदे॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः ॥

सायणभाष्यम्

हे विप्र मेधाविन्निन्द्र ते तुभ्यं ये ब्रह्मकृतः स्तोत्रकृतो हविष्कर्तारो वा स्तोतारः सचा सङ्घीभूताः सुते सोमेऽभिषुते वसूनां बहूनां धनानां वसुनश्चैकस्य निवासयोग्यस्य धनस्य च दावने दानाय परिचरन्तीति शेशः। अत्र वसूनामिति बहुवचनेनैहिकभोगसाधनानि धनान्यभिप्रेतानि। एकवचनान्तेन च निवाअयोग्यं स्वर्गाख्यं धनमभिप्रेतमित्यवगन्तव्यम्। तेऽनुष्थातारः सुम्नस्य सुखस्य लाभाय मनसा पथा मनोमार्गेण। स्तोत्रवर्त्मनेत्यर्थः। प्र भुवन्। प्रभवन्तु। उक्तवसुदानाय योग्या भवन्त्वित्यर्थः। कदेति उच्यते। सुतस्याभिषुतस्य सोम्यस्य सोमसम्बन्धिनोऽन्धसोऽन्नस्य मदे सति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः