मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५१, ऋक् ४

संहिता

हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः ।
तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥

पदपाठः

हो॒त्रात् । अ॒हम् । व॒रु॒ण॒ । बिभ्य॑त् । आ॒य॒म् । न । इत् । ए॒व । मा॒ । यु॒नज॑न् । अत्र॑ । दे॒वाः ।
तस्य॑ । मे॒ । त॒न्वः॑ । ब॒हु॒धा । निऽवि॑ष्टाः । ए॒तम् । अर्थ॑म् । न । चि॒के॒त॒ । अ॒हम् । अ॒ग्निः ॥

सायणभाष्यम्

अनया देवगणा मा ज्ञातवन्त इति निश्चित्य गूहनस्य प्रयोजनमाह। हे वरुण देव अहं होत्राद्धोतव्यात्। हविर्वहनादित्यर्थः। तस्माद्भिभ्यदायम् । आगतवानस्मि। अतो मा मामेवैवं पूर्वप्रकारेणात्रास्मिन्हविर्वहनप्रयोजने नेद्युनजन् मैव योजयन्त देवाः। तस्य तादृशस्य बिभ्यतो मे तन्वो बहुधा निविष्टा अप्सु। एतमर्थमेतद्धविर्वहनकार्यमग्निरहं न चिकेत। न बुध्ये। नाङ्गीकरोमि॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०