मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५१, ऋक् ७

संहिता

कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्या॑ः ।
अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विषः॑ सुजात ॥

पदपाठः

कु॒र्मः । ते॒ । आयुः॑ । अ॒जर॑म् । यत् । अ॒ग्ने॒ । यथा॑ । यु॒क्तः । जा॒त॒ऽवे॒दः॒ । न । रिष्याः॑ ।
अथ॑ । व॒हा॒सि॒ । सु॒ऽम॒न॒स्यमा॑नः । भा॒गम् । दे॒वेभ्यः॑ । ह॒विषः॑ । सु॒ऽजा॒त॒ ॥

सायणभाष्यम्

इदं देवानां वाक्यम्। हे अग्ने यदायुरायुष्यमजरं जरारहितमस्ति तत्ते कुर्मः। तथा तेनायुषा युक्तस्त्वं हे जातवेदो जातप्रज्ञ यथा न रिष्या न म्रियसे तथा कुर्मः। अथ वहासि वह सुमनस्यमानः स्ॐअनस्यं कुर्वन्। वोढव्यं वहन्। तदेव दर्शयति। हविषो यजमानप्रत्तस्य भागम्। केभ्यः। देवेभ्यः। हे सुजात शोभनजन्मन्नग्ने॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११