मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५१, ऋक् ८

संहिता

प्र॒या॒जान्मे॑ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो॑ दत्त भा॒गम् ।
घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥

पदपाठः

प्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । केव॑लान् । ऊर्ज॑स्वन्तम् । ह॒विषः॑ । द॒त्त॒ । भा॒गम् ।
घृ॒तम् । च॒ । अ॒पाम् । पुरु॑षम् । च॒ । ओष॑धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः॑ । अ॒स्तु॒ । दे॒वाः॒ ॥

सायणभाष्यम्

अनेनाग्निर्हविर्वहने दाताव्यानुक्त्वा दत्तेति प्रतिजानाति। हे देवाः मे मह्यं प्रयजान् प्रधानस्य प्रमुखे यष्टव्यानेतन्नामकान् हविर्भागान् तथानुयाजाननुप्रधानात्पश्चाद्यष्टव्यानेतन्नामकान् केवलानसाधारणान्दत्त। प्रयच्छत। तथोर्जस्वन्तं प्रत्यभिघारणात्सारवन्तं हविषह् सर्वस्यापि चरुपुरोडाशादेर्भागं स्विष्टकृदाख्यं भागं दत्त। अथवोर्जस्वन्तं हविषो भागं प्रयाजानुयाजाख्यं दत्तेति योज्यम् । किञ्चापां सारभूतं ताभ्य उत्पन्नं वा घृतमाज्यभागादिसाधनमोषधीनामोषधीभ्य उत्पन्नं पुरुषं च भागं दत्त। किञ्चाग्नेर्मम दीर्घमायुष्चास्तु। वषट्कारकृतवधभयं मा भूदित्यर्थः। अमुमितिहासं प्रस्तुत्य कौषीतकि ब्राह्मणम्। तस्मादाहुराग्नेयाः प्रयाजा आग्नेया अनुयाजा आग्नेयमाज्यमाग्नेयः पुरोडाश इति। शरीरदाया ह वा अग्नयो भवन्तीति च ब्राह्मणं पुरुषाहुतिर्यस्य प्रियतमेति च॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११