मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५२, ऋक् १

संहिता

विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ ।
प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥

पदपाठः

विश्वे॑ । दे॒वाः॒ । शा॒स्तन॑ । मा॒ । यथा॑ । इ॒ह । होता॑ । वृ॒तः । म॒नवै॑ । यत् । नि॒ऽसद्य॑ ।
प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒ऽधेय॑म् । यथा॑ । वः॒ । येन॑ । प॒था । ह॒व्यम् । आ । वः॒ । वहा॑नि ॥

सायणभाष्यम्

विश्वेदेवाः शास्तनेति षड्रुचं दशमं सूक्तं सौचीकस्याग्नेरार्षं वैश्वदेवम्। गतः सूक्तविनियोगः। सुग्रादापनात्पूर्वभाविनि जपे विनियुक्ता। सूत्रितं च। विश्वे देवाः शास्तन मा यथेहाराधि होता निषदा यजीयान्। आ. १-४। इति॥

एतत्सूक्तं कृत्स्नमाग्नेयम् । हे विश्वे देवाः यूयं मा मां शास्तन। अनुज्ञां दत्त। यथेह यज्ञे होता देवानामाह्वाता सन् वृतो होतृत्वेन वृतोऽहं मनवै स्त्ॐइ भवतः। यद्यस्मान्निषद्य स्त्ॐइ तस्माच्छास्तन। मे मम भागधेयं प्र ब्रूत। यथा वो यूयं भागं कल्पितवन्तः तथा तं भागं प्र ब्रूत येन च पथा वो हव्यमा वहानि। वहनं करोमि॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२