मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५२, ऋक् ४

संहिता

मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् ।
अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥

पदपाठः

माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् ।
अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥

सायणभाष्यम्

मामग्निं देवा हव्यवाहम् हविर्वोढारं दधिरे। कृतवन्तः। कीदृशं माम् । अपम्लुक्तमपक्रम्यागतम् । बहु कृच्छ्रा बहूनि कृच्छ्राणि स्थानानि चरन्तं गाच्छन्तम् । कया मनीषया दधिर इति उच्यते। अयमग्निर्विद्वान् सर्वं जानन्नोऽस्माकं यज्ञं कल्पयाति। कीद्रुशं यज्ञम् । पञ्चयामम्। पञ्चविधगमनम्। पाङ्क्तो हि यज्ञः। त्रिवृतम्। सवनत्रयभेदेन त्रिप्रकारं सप्ततन्तु सप्तभिश्छन्दोमयैः स्तुतिभिर्विस्तृतम्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२