मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५२, ऋक् ६

संहिता

त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥

पदपाठः

त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।
औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥

सायणभाष्यम्

त्रीणि शता शतानि त्रीणि सहस्राणि त्रिंशच्च नव च एतत्संख्याका देवा अग्निं माम पर्यन्। पर्यचरन्। परिचर्याप्रकार उच्यते। घृतैः क्शरद्भिराज्यैरौक्षन्। सिक्तवन्तः। अस्मा अग्नये मह्यं च बर्हिरस्तृणन्। आस्तृतवन्तः। आदिदास्तरणानन्तरं होतारमाह्वातारं न्यसादयन्त। नियमेनासादितवन्तः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२