मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५३, ऋक् १

संहिता

यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् ।
स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दन्त॑र॒ः पूर्वो॑ अ॒स्मत् ॥

पदपाठः

यम् । ऐच्छा॑म । मन॑सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ । वि॒द्वान् । परु॑षः । चि॒कि॒त्वान् ।
सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥

सायणभाष्यम्

यमैच्छामेत्येकादशर्चमेकादशं सूक्तम् । देवानां वाक्यत्वाद्देवा ऋषयः। तदद्येति तृचस्य सौचीकोऽग्निरृषिः। तन्तुं तन्वन्नित्याद्या अष्टमीवर्जिता जगत्यः। अष्टमी शिष्टाश्च त्रिष्टुभः। तथा चानुक्रान्तम्। तन्तुमाद्या जगत्योऽष्टमीवर्जमिति। शिष्टमुक्तम्। गतः सूक्तविनियोगः॥

यमग्निमैच्छाम अनिष्तवन्तो वयं मनसा हविष्प्रापण बुद्ध्या। मह्यं हविः प्रापयत्विति बुद्ध्येत्यर्थः। सोऽयमग्निरागात्। आजगाम। कीदृशोऽग्निः। यज्ञस्य यज्ञं विद्वान् तथा पुरुषः परूंषि सन्धातव्यान्यङ्गानि चिकित्वानभिगच्छन्। सोऽग्निर्यजीयान्यष्टृतमो नोऽस्मान्देवताता देवतातौ यज्ञे यक्षत्। यजतु। निहि षत्सत्। न्यसीदत्खलु वेद्यामिति शेशः। कीदृशः सन्। अन्तर ऋत्विजां यष्टव्यानां देवानां च मध्ये सञ्चरन् अस्मत्पूर्वोऽस्मत्तो देवेभ्यः पूर्वभावी सन्। अग्निं समिध्य पश्चाद्धि देवा आह्वयन्ते॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३