मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५३, ऋक् ५

संहिता

पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ।
पृ॒थि॒वी न॒ः पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

पदपाठः

पञ्च॑ । जनाः॑ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ।
पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥

सायणभाष्यम्

पञ्च जना देवादयो मम होत्रं हवमाह्वानं जुषन्ताम्। सेवन्ताम्। अपि च गोजाता भूम्यामुत्पन्नाः। यद्वा। गोशब्देन तज्जं पय आदिकमुच्यते। हविरर्थं प्रादुर्भूता इत्यर्थः। तादृशे ये सन्ति। उतापि च ये यज्ञियासो यज्ञार्हाः सन्ति ते मम होत्रं जुषन्ताम्। किञ्च पृथिवी पृथिवीदेवता पार्थिवात्पृथिवीसम्बन्धान्नोऽस्मानंहसः पापात्पातु। रक्शतु। तथान्तरिक्षमन्तरिक्षदेवता दिव्यादान्तरिक्षादंहसः पापसकाशादस्मान्पातु॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३