मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५३, ऋक् ९

संहिता

त्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्त॑मो॒ बिभ्र॒त्पात्रा॑ देव॒पाना॑नि॒ शंत॑मा ।
शिशी॑ते नू॒नं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

त्वष्टा॑ । मा॒या । वे॒त् । अ॒पसा॑म् । अ॒पःऽत॑मः । बिभ्र॑त् । पात्रा॑ । दे॒व॒ऽपाना॑नि । शम्ऽत॑मा ।
शिशी॑ते । नू॒नम् । प॒र॒शुम् । सु॒ऽआ॒य॒सम् । येन॑ । वृ॒श्चात् । एत॑शः । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

अयं त्वष्टा देवशिल्पी मायाः। कर्मनामैतत्। कर्माणि पात्रनिर्माण विषयाणि वेत्। वेत्ति। जानाति। स च त्वष्टापसां शोभनकर्मवतां मध्येऽपस्तमोऽतिशयेन शोभनकर्मा देवपानानि देवाः पिबन्ति येशु तानि पात्रा सोमपात्राणि बिभ्रद्दारयन्वर्तत इति शेषः। स च त्वष्टा नूनमिदानीमग्नौ हविर्वहनायाङ्गीकृते सति स्वायसं शोभनायः सारभूतं परशुं शिशिते। तीक्ष्णयति। त्वष्टा पात्रसम्पादनार्थं येन परशुनैतश एतशवर्णो ब्रह्मणस्पतिर्बह्मणो मन्त्रस्य पाता पात्रादिसम्पादनरूपस्य कर्मणः स्वामी वा वृश्चात् वृश्चति॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४