मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५३, ऋक् १०

संहिता

स॒तो नू॒नं क॑वय॒ः सं शि॑शीत॒ वाशी॑भि॒र्याभि॑र॒मृता॑य॒ तक्ष॑थ ।
वि॒द्वांसः॑ प॒दा गुह्या॑नि कर्तन॒ येन॑ दे॒वासो॑ अमृत॒त्वमा॑न॒शुः ॥

पदपाठः

स॒तः । नू॒नम् । क॒व॒यः॒ । सम् । शि॒शी॒त॒ । वाशी॑भिः । याभिः॑ । अ॒मृता॑य । तक्ष॑थ ।
वि॒द्वांसः॑ । प॒दा । गुह्या॑नि । क॒र्त॒न॒ । येन॑ । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः ॥

सायणभाष्यम्

हे कवयो मेधाविनस्त्वष्टुर्मम शिष्या ऋभवः सतः। सन्त इत्यर्थः। प्रशस्ताः यूयं नूनमिदानीं सं शिशीत अत्यर्थं तीक्ष्णीकुरुत वाशीः। याभिर्वाशीभिः पात्राण्यमृताय सोमाय। तत्पानायेत्यर्थः। यद्वा । युष्माकममृतत्वाय तदर्थम् तक्शत। सम्पादयथ। हे कवयो विद्वांसः यूयं गुह्यानि गोपनीयानि पदा पदानि निवासस्थानानि कर्तन। कुरुत। येन स्थानकरनेन देवासो देवाः यूयममृतत्वमानशुः प्राप्ता यूयम् । एवं स्वशिष्यानाह॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४